________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् षष्ठ उद्देशकः
११४४ (A)
यथा वा लङ्खिकायाः क्षिप्रं करणं तथैवेदं भवति। एवं जीवस्य शुभोऽशुभश्च परिणाम: क्षणेनोपजायते क्षणेन वाऽपैति इत्यर्थः ॥ २७३८॥
अथ कथं मनसोऽनवस्थानमत आहपरिणामाणवत्थाणं, सति मोहे उ देहिणं । तस्सेव उ अभावेण, जायते एगभावया ॥ २७३९॥
मन:परिणामानामनवस्थानं देहिनां प्राणिनां सति विद्यमाने मोहे भवति । तस्यैव तु | मोहस्याऽभावेन जायते एकभावता मन:परिणामस्य एकरूपता। तदेवं मन:परिणामो वीचिरूपो व्याख्यातः ॥ २७३९ ॥
इदानीं शुभाऽशुभपरिणामप्रतिपादनार्थमाहजहाऽवचिज्जए मोहो, सुद्धलेसस्स झायणो । तहेव परिणामो वि, विसुद्धो परिवढ्ढए ॥ २७४०॥
गाथा २७३९-२७४५
मनसः चञ्चलतावर्णनम्
११४४ (A)
For Private And Personal Use Only