________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
धष्ठ
उद्देशकः ११३६ (A)
एंताण य जंताण य, पोरिसिभंगो तओ गुरु वयंती । थेरे अजंगमंमि व, मज्झण्हे वावि आलोए ॥ २७१२॥
यदि दूरे वसतिर्लब्धा उद्घाटायां च पौरुष्यामागच्छतां गच्छतां च पौरुषीभङ्गस्ततो गुरवः स्वयं तेषामकृतश्रुतानां समीपं व्रजन्ति। आचार्यो वृद्धत्वेन [अजङ्गमत्वेन] वा |* गन्तुमशक्तस्ततः स्थविरे अजङ्गमे वाचार्ये ते अकृतश्रुता मध्याह्ने गुरुसमीपमागत्याऽऽलोचयन्ति ॥ २७१२॥
एवं पि दुल्लहाए, पडिवसहठिया न एंति पतिदिवसं । समणुण्णदढधिई य अतरुणे बहिया विसर्जति ॥ २७१३॥
एवमपि अनेनापि दुर्लभायां वसतौ दूरे प्रतिवृषभस्थिता न प्रतिदिवसं | गुरुसमीपमागच्छन्ति । अर्थादापन्नं द्वितीये दिवसे आलोचका आगच्छन्ति । अथ कीदृशास्ते प्रतिवृषभाः यानाचार्यः प्रेषयति? तत आह-समणुण्णेत्यादि, समनोज्ञा नाम येषां परस्परं प्रीतिस्तान् समनोज्ञान् दृढधृतीन् अतरुणान् मध्यमवयसो बहिः प्रतिवृषभानाचार्या विसर्जयन्ति ॥ २७१३॥
गाथा २७१२-२७१९ भिन्नवसतौ स्थिातानां समीपगमने यतना
११३६ (A)
For Private And Personal Use Only