________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् । षष्ठ । उद्देशकः ११३५ (B)
दूरे अन्यस्मिन् ग्रामे स्थिता भवेयुस्ततो यदि गुरुसकाशमागच्छतां गच्छतां च पौरुषीभङ्गः। तत उद्घाटायां पौरुष्यामागत्याऽऽचार्यसमीपे [विकटयन्ति]आलोचयन्ति प्रत्याख्यानं च गृह्णन्ति पूर्वार्द्धकाः, एतद्दूरे स्थितानामविशेषेणोक्तम् ॥ २७१० ॥
अधुना विशेषमभिधित्सुराहगीयसहाया उ गया, आलोयण तस्स सो वि य गुरूणं । अकडा पुण पत्तेयं, आलोयंती गुरुसगासे ॥ २७११॥
यदि तेषां दरस्थितानां कोऽपि गीतार्थः सहायोऽस्ति तर्हि ते गीतसहाया गीतार्थसहाया दूरे गताः सन्तस्तस्य गीतार्थस्य पुरत आलोचयन्ति, स पुनर्गीतार्थ उद्धाटायां पौरुष्यां | गुरूणां समीपमागत्य विकटयति । अथ नास्ति कोऽपि तेषां गीतार्थः सहायस्तर्हि ते केवला अकृता अकृत श्रुता उद्घाटायां पौरुष्यां गुरुसकाशे समागत्य प्रत्येक प्रत्येकमालोचयन्ति ॥ २७११॥
X.
गाथा २७०७-२७११ | कारणे | विष्वक्वसने
यतना
x.
४
११३५ (B)
१. विकथयति -पु.प्रे.। कथयति - मु. ॥
For Private And Personal Use Only