________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
एकनिवेशनस्यान्तः पृथग् अन्यस्यां वसतौ स्थातव्यम् असत्येकनिवेशनस्यान्तरन्यस्याः वसतेरभावे वाटकस्याऽन्तः पृथगन्यस्यां वसतौ वसन्ति । अथवा वाटकस्याप्यन्तः पृथगन्यवसतिर्न लभ्यते तदा वाटकस्य बहिर्हस्तशताभ्यन्तरे पृथगन्या वसतिर्गवेषणीया, तस्य हस्तशतस्याभ्यन्तरे वसतेरभावे दूरेऽपि वसतिरन्या स्यात् ॥ २७०९ ॥
व्यवहारसूत्रम् षष्ठ
उद्देशकः ११३५ (A)
तत्र हस्तशताभ्यन्तरं यावत् यतनाविधिमाहवीसुं पि वसंताणं, दोण्णि वि आवासगा सह गुरूहिं। दूरे पोरिसिभंगे, उग्घाडाऽऽगंतु विगडेंति ॥ २७१०॥ निवेशने पाटकहस्तशताभ्यन्तरे विष्वगपि वसतामेष विधिर्दिवसे दिवसे द्वे अप्यावश्यके प्राभातिकवैकालिकप्रतिक्रमणलक्षणे सह गुरुभिः कर्तव्ये, भिक्षामटित्वा ततः सन्निवृत्ता आचार्यस्य समीपे समागत्या-ऽऽलोचयन्ति, अथ हस्तशतस्य बहिर्वसतिर्लब्धा तर्हि गुरुसमीपे चतुर्थपौरुष्यामालोचनं कृत्वा वैकालिकमावश्यकं स्वकीयायां वसतौ कुर्वन्ति । ततः प्रातरप्यावश्यकं तत्र कृत्वा गुरुसमीपमागत्य प्रत्याख्यानं गृह्णन्ति । दूरे इत्यादि, यदि पुनः
गाथा २७०७-२७११
कारणे
विष्वकसने
यतना
११३५ (A)
For Private And Personal Use Only