________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ उद्देशकः
एवं च भवे दोसा, दोसु दिवसेसुं जे भणियपुव्विं । कारणियं पुण वसही, असती भिक्खोभये जयणा ॥ २७०८॥
ननु यदि तृतीये दिवसे गीतार्थेन सह संवसनमेवमपि ये पूर्वं भणिता मिथ्यात्वादयो दोषास्ते द्वयोर्दिवसयोर्भवन्ति । आचार्य आह-सत्यमेतत् केवलमिदं सूत्रं कारणिकं कारणवशप्रवृत्तमतो न दोषः । किं पुनस्तत्कारणमत आह-वसही असती इत्यादि, वसतिरेकत्र सर्वेषां न विद्यते यदि वा भिक्षा सर्वेषामेकत्र न भवति । अथवा उभयमेकत्र सर्वेषां न सम्भवति । तत एतेषां त्रयाणां कारणानामन्यतमेन कारणेन पृथक् पृथक् वसन्ति । तत्र च यतना कर्तव्या । यतनया च संवसतां प्रायश्चित्ताभावः ॥ २७०८॥
११३४ (B)
तामेव यतनामाह
गाथा २७०७-२७११
कारणे विष्वक्वसने
यतना
*
संकिट्ठावसहीए, निवेसणस्संतो अण्णवसहीए । असतीए वाडगंतो, तस्स असती होज्ज दूरे वा ॥ २७०९॥ स्वग्रामे सक्लिष्टायामतिसङ्कटायां वसतौ सर्वेषामेकत्र स्थानं न भवति तदा |
४११३४ (B)
For Private And Personal Use Only