SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री | व्यवहार सूत्रम् षष्ठ उद्देशकः ११३४ (A) कश्चिदाचारप्रकल्पधरो यस्तृतीयां रजनिं गत्वा तैः समं वसति तर्हि तेषामापन्नः समापन्नो नास्ति कश्चित् छेदः परिहारो वा। नास्ति कश्चिदाचारप्रकल्पधरो यस्तृतीयां रजनीं गत्वा तैः समं वसति तर्हि तेषां सर्वेषामपि तत्प्रत्ययमगीताथैः सह संवसनप्रत्ययं छेदः परिहारो वा । एष सूत्रसङ्क्षेपार्थः ॥ अधुना भाष्यविस्तर: गामे उवस्सए वा, अभिनिव्वगडाए दोस ते चेव । नवरं पुण नाणत्तं, तइदिवसे गीयसंवसणा ॥ २७०७॥ ग्रामे वा एकस्मिन्नुपाश्रये विष्वक् अभिनिव्वगडायां पृथक् परिक्षेपायाम्,उपलक्षणमेतत् पृथग्द्वारायां पृथग्निष्क्रमणप्रवेशायां येऽनन्तरसूत्रे मिथ्यात्वादयो दोषा उक्तास्त एवाऽन्यूनातिरिक्ता द्रष्टव्याः। नवरं पुनर्नानात्वमिदमस्मिन् सूत्रे यदि गीतार्थनिश्रया वसन्ति तर्हि तृतीयदिवसे गीतसंवसनं गीतार्थेन सह संवसनं कर्त्तव्यम्। आचार्यस्तृतीयदिवसे तेषां शोधिनिमित्तं गीतार्थमेकं प्रेषयति, एवं च तेषां नास्ति प्रायश्चित्तम् ॥ २७०७ ॥ गाथा २७०७-२७११ कारणे विष्वक्वसने यतना ११३४ (A) अत्र पर आह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy