________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११३३ (B)
कल्पते इति मन्यमाना अकृता अकृतश्रुताः स्वग्रामे विष्वक् वसेयुः अतस्तनिषेधार्थमिदं सूत्रमित्ययं सूत्रसम्बन्धलेशः ॥ २७०५ ॥
अथवाऽयमन्यः सम्बन्धःअगडसुया वाहिकया, समागमो एस होइ दोण्हं पि । सच्छंदअणिस्सिया वा. निस्सियजयणा विहं भणिया ॥२७०६॥
अनन्तरसूत्रे अकृतश्रुता अधिकृता अस्मिन्नपि सूत्रे त एवाकृतश्रुताः प्रोच्यन्ते इत्येष द्वयोरपि सूत्रयोः समागमः सम्पर्कः । अथवाऽधस्तनानन्तरं सूत्रे स्वच्छन्दतोऽनिश्रिता उक्ताः अस्मिन् पुनः गीतार्थनिश्रितानां यतना भणिता ॥ २७०६ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
से गामंसि वा इत्यादि, पूर्ववत् नवरमभिनिव्वगडाए अभि प्रत्येकं नियतो वगड: परिक्षेपो यस्यां सा अभिनिव्वगडा एतस्यां, पृथक् परिक्षेपायामित्यर्थः । तथा अभि प्रत्येकं नियतं द्वारं यस्याः सा, तथा तस्यां, तथा अभि प्रत्येकं निष्क्रमणप्रवेशौ निष्क्रमणप्रवेशस्थानं यस्याः सा, तथा तस्यां वसतौ बहूनामकृतश्रुतानामेकतो वस्तुम्। अस्ति चात्र
सूत्र ५
गाथा २७०२-२७०६ अगीतार्थानां
विष्वक | संवासनिषेधः
११३३ (B)
For Private And Personal Use Only