SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११३२ (B) असती एगागी उ निब्बंधे बहूण अगीयाणं । सामायारीकहणं मा बहिभावं निरंभंता ॥ २७०४ ॥ राजद्विष्टादिषु राजद्विष्टाऽशिवाऽवमौदर्यसम्भ्रमादिषु सर्वेषु भवति सङ्केतः कर्त्तव्यः । तथा स्नानादिनिमित्तं जिनप्रतिमास्नानरथनिर्याणादिनिमित्तं समवसरणं भूयसामाचार्यादीनां मिलनं भविष्यतीति समवसरणे श्रुते कोऽप्याचार्यसमीपमागत्य द्वितीयं गीतार्थं मार्गयति, तस्य द्वितीयो गीतार्थो दातव्यः । असति अविद्यमाने गीतार्थे अविद्यमानता च द्विधा-सदभावेन असदभावेन वा, सदभावो नाम सन्ति गीतार्थाः परं ग्लानादिप्रयोजनव्यापृताः, असदभावो मूलत एव गीतार्था न सन्ति। तत्र सदभावेन [असदभावेन]वा अविद्यमाने गीतार्थे स प्रतिषेधनीयो यथा नास्ति द्वितीयो गीतार्थः । अथ स निर्बन्धं करोति तर्हि स एकाकी प्रेष्यते यदि वा बहवोऽगीतार्थाः सहाया दीयन्ते। बहूनामपि स्नानदर्शनादिनिमित्तं गमनेच्छाभावात् तेषां च बहूनामगीतार्थानां या पथि सामाचारी या च समवसरणे प्रविष्टानां, तस्याः कथनम्। अथ कस्मात् ते निर्बन्धेऽपि कृते मुत्कल्यन्ते? तत आह मा निरुध्यमाना बहिर्भावं व्रजेयुरिति कृत्वा ॥ २७०३ ॥ २७०४॥ /4 सूत्र ५ गाथा २७०२-२७०६ | अगीतार्थानां विष्वक् | संवासनिषेधः ११३२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy