________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः
११३२ (A)
www. kobatirth.org
तत्तो वि पलाविज्जइ, गीयत्थ बिइज्जवं तु दाऊण । असतीए संगारो, कीरइ अमुगत्थ मिलियव्वं ॥ २७०२ ॥
hts साधुः गीतार्थाभावे आचार्येण क्वचित् प्रयोजने प्रेषितो भणितश्चाद्यैव प्रत्यागन्तव्यमित्येवमेकाहिगमे एकदिनगमागमेऽध्वनि अन्तराले तत्र व्याघातो भवेत्, तेन कारणेन स यत्र प्रेषितस्तत्रैवासीत् न प्रत्यागच्छति, अथ च तस्य स्वज्ञातय उत्प्रव्राजननिमित्तमाचार्यसमीपमागताः अपश्यन्तः सर्वतः समन्तात् निरीक्षन्ते, निरीक्षमाणाश्च तत्र गता यत्र स तिष्ठति । ततो येषां समीपे स प्रेषितस्तत्साधुभिर्ज्ञातं यथा शैक्षस्य निजकाः समायातास्तिष्ठन्ति तेच ब्रुवते - 'वयमात्मीयमुत्प्रव्राजयिष्यामः ततः स ततोऽपि स्थानात् द्वितीयं गीतार्थं दत्त्वा पलाय्यते दूरं यत्र तन्निजकानां गतिविषयो नास्ति । असति गीतार्थे अगीतार्थोऽपि सहायो दीयते, तेषां च सङ्केतः क्रियते यथा - अमुकप्रदेशे मिलितव्यम्, अगीतार्थस्यापि सहायस्याभावे एकाक्यपि प्रेष्यते तत्रापि सङ्केतः कर्त्तव्यः एवमेकाकिनस्त्रिप्रभृतीनां वा बहूनां ऋतुबद्धे वर्षासु च वासो भवति ॥ २७०१ ॥ २७०२ ॥
यदुट्ठादीसु व, सव्वेसुं चेव होइ संगारो ।
हाणादि व ओसरणे, गीयत्थबिइज्जगं मग्गे ॥ २७०३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
*
सूत्र ५
गाथा
| २७०२-२७०६ अगीतार्थानां
विष्वक् संवासनिषेधः
११३२ (A)