________________
Shri Mahavir Jain Aradhana Kendra
ཙྪཱ དྷ ཝཱ ,
व्यवहार
उद्देशकः
११३१ (B)
www. kobatirth.org
एतेन अनन्तरोदितेन कारणेनाकृतश्रुतानां बहूनामप्येकत्र वासो न कल्पते । द्वितीयपदे अपवादपदे पुनः कल्पते, क्वेत्याह- राजद्विष्टे - [ अशिवे ]अवमौदर्ये गुरूणां सन्देशाच्च । तथाहि-राजप्रद्वेषवशात् एकाकी आत्मद्वितीय आत्मतृतीयो वा भवेत् । एवमशिवेऽवमौदर्ये च भावनीयम्, तथा गुरोः सन्देशवशात् आगाढकारणे गीतार्थानामभावेऽगीतार्था अपि व्रजन्ति इति ॥ २६९९ ॥
तह नाणादीणट्ठा, एएसिं गीतो दिज्न एक्वेक्को
असती एगागी वा, फिडिया वा जाव न मिलति ॥ २७०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
तथा ज्ञानादीनामर्थाय ज्ञाननिमित्तं दर्शननिमित्तं चारित्रनिमित्तं वैयावृत्त्यकरणनिमित्तं वा चलितानां तेषां गीतार्थानामभावे अगीतार्था अपि गच्छन्ति, स्पर्द्धकपतौ वा कालगते आचार्यसमीपम् अथवा सार्थात् मन्दगतितया स्फिटिता यावन्नाद्यापि मिलन्ति तावदेकत्र बहूनामकृतश्रुतानामपि वासो न विरुध्यते ॥२७०० ॥
एगाहिगमद्धाणे व अंतरा अपांतरो तत्थ होज्ज वाघातो । तेणच्छेज्जा तत्थ वि, सेहस्स नियल्लगा बेंति ॥ २७०१ ॥
For Private And Personal Use Only
****
गाथा
| २६९४-२७०१ अगीतार्थनिश्रायां
दोषाः
११३१ (B)