________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः
११२९ (A)
रुक्षररसविरसादिभिराहारैर्निर्भर्त्तिताः सम्प्रधारयन्ति- 'कियच्चिरं वयं रुक्षाहारा योगसंस्तरणं कर्तुं शक्नुमः?,तस्मात् गच्छामः' एवं चिन्तयित्वा गच्छादपक्रामन्ति, एवं तेषामकृतश्रुतानां बहूनामेकत्र वासः ॥ २६९० ॥
चइयाणं सामत्थं, संघयणजुयाणमाउलाणं पि । उउवासे लहु लहुगा, सुत्तमगीयाणमाणादी ॥ २६९१॥
अरसविरसादिभिराहारैस्त्याजितानामाकुलानां संहननयुतानामपि, अपिशब्दो भिन्नक्रमत्वादत्र योजित: एवं सामर्थ्यपर्यालोचनं भवति, यथा-'कियन्तं कालं वयं रूक्षाहारा: स्थास्यामः? तस्मादपक्रमामो गच्छाद्' इति एवं चिन्तयित्वा यदि ऋतुबद्धे काले वसन्ति तदा प्रायश्चित्तं मासलघु वर्षाकाले चतुर्लघुकम् । एवमगीतार्थानां विषयेऽधिकृतं सूत्रम्, न केवलमधिकृतं प्रायश्चित्तं किन्तु आज्ञादयश्च ॥ २६९१ ॥
तानेव मिथ्यात्वादीन् दोषान् द्वारगाथया संजिघृक्षुराहमिच्छत्तरसोहिरसागारियाइ ३ गेलण्णे ४अहव कालगए ५। अद्धाण ६ओमसंभमभए य रुद्धे य ओसरिए ॥ २६९२॥ दारगाहा।
।
गाथा २६८९-२६९३ गीतार्थनिश्रां विना न स्थेयम्
४११२९ (A)
For Private And Personal Use Only