________________
Shri Mahavir Jain Aradhana Kendra
ཙྪཾ ༔ ཝཱ སྠཽ ཚ,
व्यवहार
११२९ (B)
***
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषामगीतार्थानां मतिभेदादिना मिथ्यात्वं स्यात्, तथा शोधिस्तैर्न ज्ञायते, तथा सागारिकायां वसतौ ये दोषाः परिहार्यास्तेषामपरिज्ञानं तथा ग्लानत्वेऽथवा कालगतेऽध्वनि मार्गे अवमेऽवमौदर्ये अग्न्यादिसम्भ्रमे बोधिकम्लेच्छस्तेनभये अकालवर्षेण रुद्धे तथा अप पथि गच्छतां कस्मिंश्चित् मन्दगतित्वात् स्फिटिते या यतना तां न जानन्ति । एष द्वारगाथासङ्क्षेपार्थः ॥ २६९२ ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतो मिथ्यात्वद्वारमाह
मतिभेया पुव्वोग्गह, संसग्गीए य अभिनिवेसेण । गोविंदे य जमाली, सावगतच्चन्निए गोट्ठे ॥ २६९३॥
कस्यापि मतिभेदात् मिथ्यात्वं स्यात्, कस्यापि पूर्वव्युद्ग्रहात्, कस्यापि संसर्गात्, कस्यचिदभिनिवेशेन । अत्रार्थे निदर्शनान्याह - गोविंदे य इत्यादि, अत्र गोविन्द - जमालिशब्दयोः व्यत्ययेनोपन्यासो गाथानुलोम्यात्, परमार्थतः पुनरेवं पाठः - जमालिर्गोविन्दः श्रावकः तच्चन्नियः श्रावकभिक्षुः गोष्ठो गोष्ठामाहिलः, एतानि यथाक्रमं निदर्शनानि ॥ २६९३ ॥
For Private And Personal Use Only
गाथा
| २६८९-२६९३ गीतार्थनिश्रां
विना न स्थेयम्
| ११२९ (B)