________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
X४
.
११२८ (B)
तेषां बहूनामकृतश्रुतानामेकतो वसतामेकस्मिन्नपि गीतार्थे असति विद्यमाने ऋतुबद्धे | वर्षासु च वस्तुं न कल्पते । यदि वसति तत ऋतुबद्धे काले प्रायश्चित्तं मास लघु, वर्षाकाले चतर्लघुकम् अथैकोऽप्यस्ति गीतार्थस्तर्हि तस्मिन् ऋतुबद्ध वर्षासु च वस्तं कल्पेत न तत्र प्रायश्चित्तमिति भावः। किं कारणं गीतार्थेन सह संवसतां न प्रायश्चित्तम् ? अत आह-गीतार्थो देशक एव भवति । इयमत्र भावना-यथा केचित् पुरुषा अटव्यां विप्रनष्टाः केनचिद्देशकेन दृष्टास्ते भणिता 'मा इतो व्रजन्तोऽटवीं प्रविशत, अहं भवतो निस्तारयामि' ततस्तेन ऋजुकेन पथा नगरं प्रापिताः। एवं गीतार्थोऽपि मोक्षपथविप्रनष्टानां मोक्षपथप्रदर्शक इति तेन सह संवसतां कालद्वयेऽपि नास्ति प्रायश्चित्तमिति ॥ २६८९ ॥
सम्प्रति परस्य प्रश्नावकाशमाशङ्कमान इदमाहकिह पुण होज बहूणं, अगडसुयाणं तु एग्गतो वासो । होजाहि कक्कडम्मी, खेत्ते अरसादिचइयाणं ॥ २६९०॥
कथं केन कारणेन पुनर्बहूनामकृतश्रुतानामेकत्र वासो भवेत् ? सूरिराह-कर्कशक्षेत्रे : अरसादित्याजितानां भवेदेकत्र वासः। तथा हि- ते साधवो महति गच्छे वर्तमाना नगरे
गाथा २६८९-२६५३ गीतार्थनिश्रां विना न
स्थेयम्
११२८ (B)
For Private And Personal Use Only