________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११२७ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ये अतिशेषा आचार्य आचार्यस्य सूत्रे साक्षादभिहिताः ये चान्ये पञ्चाऽर्थतो भणिता:, तान् दशाप्यतिशयान् कार्ये कारणे समागच्छति 'कज्जं ति वा कारणं ति वा एगट्ठमि ति वचनात् । जयसेवीति यतनया सेवमानो भिक्षुरपि न बकुशी भवति, न बकुशत्वदोषेण गृह्यते इति भावः ॥ २६८६ ॥
किं तत् कार्यम् ? अत आह—
बालाऽसहूमतरंतं, सुइवादिं पप्प इड्डिवुड्डुं वा ।
दस वि भइयातिसेसा, भिक्खुस्स जहक्कमं कज्जे ॥ २६८७ ॥
बालाऽसहमतरन्तं ग्लानं शुचिवादिनं ऋद्धिवृद्धं वा प्राप्य दशाप्यतिशेषा भिक्षोः कार्ये समापतिते यथाक्रमं भजिता विकल्पिता भवन्तीति भावः । तथाहि - बालस्य हस्तपादादयः प्रक्षाल्यन्ते, अन्ये चातिशया यथासम्भवं तस्य क्रियन्ते । 'असहो' नाम असमर्थस्तस्यापि यथायोगमतिशयाः क्रियन्ते, तथा अतरन् ग्लानः, शुचिवादी शौचप्रधानः
For Private And Personal Use Only
सूत्र ३
गाथा
| २६८४-२६८८ गणावच्छेद
कस्य अतिश यद्वयम्
११२७ (A)