________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११२४ (B)
अर्द्धमासस्य पक्षात्मकस्य मध्यमष्टमी सा खलु पर्व, मासस्य मध्यं पाक्षिकं पक्षण | निवृत्तं ज्ञातव्यं, तच्च कृष्णचर्तुदशीरूपमवसातव्यम् । तत्र प्रायो विद्यासाधनोपचारभावात्। 'बहुलादिका मासा' इति वचनाच्च न केवलमेतदेव पर्व किन्त्वन्यदपि पर्व भवति यत्रोपरागो ग्रहणं चन्द्रसूर्ययोः । एतेषु पर्वसु विद्यासाधनप्रवृत्तिः । यद्येवं तत एकरात्रग्रहणम् ॥ २६७८ ॥ तत आह
चाउद्दसी गहो होइ कोइ अहवा वि सोलसिग्गहणं । वत्तं तु अणजंते, होइ दुरायं तिरायं वा ॥ २६७९॥
कोऽपि विद्याया ग्रहश्चतुर्दश्यां भवति। अथवा षोडश्यां शुक्लपक्षप्रतिपदि विद्याया | ग्रहणम्। किमुक्तं भवति द्विकोऽपि विद्याग्रहश्चतुर्दश्यां कृतः कोऽपि प्रतिपदि क्रियते इत्येवं त्रिरात्रवसनम्। अथवा एकेन दिवसेन व्यक्तमज्ञायमाने विद्याग्रहणे भवति द्विरात्रं त्रिरात्रं विष्वग्वसनमिति ॥ २६९६ ॥
यदुक्तं सूत्रे 'तिरायं वेति तत्र वाशब्दव्याख्यानार्थमाह
गाथा २६७७-२६७८ आचार्यस्य विष्वक्
वसने कारणानि
११२४ (B)
For Private And Personal Use Only