________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११२४ (A)
विष्वक् दर्पात् कारणमन्तरेण [वसति सति] गणिनि गणावच्छेदके आचार्य च एवमेव भिक्षोरिव प्रायश्चित्तं संयमात्मविराधने च भवतः। यद्येवं तर्हि सूत्रमनवकाशमत आह-सूत्रं पुनः कारणिकं कारणमधिकृत्य प्रवृत्तं, ततो नाऽनवकाशम्। न केवलं गणावच्छेदकाऽऽचार्ययोः कारणे वसतेरन्तर्बहिर्वा वसनमनुज्ञातं किन्तु भिक्षोरपि कारणे बहिरन्तर्वा वसनस्यानुज्ञा ॥ २६७६ ॥
अथ किं तत् कारणं यदधिकृत्य सूत्रं प्रवृत्तमत आहविज्जाणं परिवाडी, पव्वे पव्वे य देंति आयरिया । मासद्धमासियाणं, पव्वं पुण होइ मझं तु ॥ २६७७॥
आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति विद्याः परावर्त्तन्ते इति भावः। अथ पर्व किमुच्यते तत आह- मासार्द्धमासयोर्मध्यं पुनः पर्व भवति ॥ २६७७॥
एतदेवाहपक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं । अण्णं पि होइ पव्वं, उवरागो चंदसूराणं ॥ २६७८॥
गाथा २६७७-२६७८ आचार्यस्य विष्वक् वसने कारणानि
११२४ (A)
For Private And Personal Use Only