________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देश :
११२१ (A)
www. kobatirth.org
एतदेव निदर्शनद्वयं भावयति
अज्ज समुद्दा दुब्बल, कितिकम्मा तिणिण तस्स कीरंति । सुत्तत्थपोरसि समुट्ठियाण तइयं तु चरमाए ॥ २६६६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आर्यसमुद्राः सूरयो दुर्बला दुर्बलशरीरा:, ततस्तेऽतिशयानुपजीवितवन्तोऽनुपजीवने योगसन्धानकरणाऽशक्तेः तथा च तस्य प्रतिदिवसं त्रीणि कृतिकर्माणि विश्रामणारूपाणि क्रियन्ते, तद्यथा - द्वे सूत्रार्थपौरुषीसमुपस्थितानां तृतीयं कृतिकर्म चरमायां पौरुष्याम्, इयमत्र भावना-सूत्रपौरुषीसमाप्त्यनन्तरं यावन्निषद्या क्रियते तावत् प्रथमा विश्रामणा, द्वा अर्थपौरुषीसमाप्त्यनन्तरं, तृतीया चरमपौरुषीपर्यन्ते कालप्रतिक्रमणानन्तरम् ॥ २६६६ ॥
सडकुलेसु य तेसिं, दोच्चंगादी उ वीसु घेप्पंति ।
मंगुस न किइकम्मं, न य वीसुं घेप्पए किंचि ॥ २६६७ ॥ श्राद्धकुलेषु भक्तेषु तेषामार्यसमुद्राणामाचार्याणां योग्यानि कूरादीनि द्वितीयाङ्गादौ मात्रकादौ विष्वक् गृह्यन्ते आर्यमङ्गोः पुनराचार्यस्य न कृतिकर्म क्रियते नापि तद्योग्यं
For Private And Personal Use Only
गाथा
| २६६२-२६६९ अतिशय
* परिभोगा*ऽपरिभोगे
दृष्टान्त:
***
| ११२१ (A)