________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
X
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः
११२१ (B)
पौद्गलिकादि किञ्चित् विष्वक् मात्रके गृह्यते किन्तु, यदि श्राद्धकुलेष्वतिभक्तेषूत्कृष्टं लभ्यते तदपि गृहीत्वाऽज्ञातोञ्छपतद्ग्रहे क्षिप्यते, विष्वगानीतमपि न भुङ्क्ते । तौ च द्वावप्याचार्यों विहरन्तावेव यदा सोपारके गतौ, तत्र च द्वौ श्रावको एक: शाकटिकोऽपरो वैकटिको नाम सुरासन्धानकारी। तौ च द्वावपि श्रावकावार्यसमुद्राणां योग्यमतिशायि पौगलिकप्रभृतिकं विष्वक मात्रके गृह्यमाणमार्यमङ्ग नां पुनर्योग्यमेकस्मिन्नेव पतद्ग्रहे गृह्यमाणं पश्यतः, दृष्ट्वा चाऽऽचार्यममुसमीपमागच्छतः ॥ २६६७॥
बेंति ततो णं सड्डा, तुज्झ वि वीसुं न घिप्पए कीस । तो बेंति अज्जमंगू, तुब्भे च्चिय एत्थ दिलुतो ॥ २६६८ ॥
ततः समीपाऽऽगमनानन्तरं तौ श्रावको ब्रुवाते किं नाऽऽर्यसमुद्राणामिव युष्माकमपि | विष्वक् प्रायोग्यं गृह्यते? ततो ब्रुवन्त्यार्यमङ्गव आचार्य अत्रार्थे यूयमेव दृष्टान्ताः ॥ २६६८॥
कथमित्याहजा भंडिदुब्बला ऊ, तं तुब्भे बंधहा पयत्तेण । न वि बंधह बलिया ऊ, दुब्बलबलिए व कुंडी वि ॥ २६६९॥
गाथा २६६२-२६६९
अतिशयपरिभोगाऽपरिभोगे दृष्टान्तः
११२१ (B)
For Private And Personal Use Only