________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः १११८ (A)
नुत्सुकः,तस्य दशविधवैयावृत्त्यप्रयोक्ताऽनुकम्पितोऽनुगृहीतः । तत्करणे कृतं तेन दशविधमपि वैयावृत्त्यं तत्प्ररूपणायास्तदधीनत्वादिति भावः ॥ २६५३॥ तदेवमव्यवच्छेदोऽपि भावितोऽधुना ‘अतिसेसा पंच आयरिए' इति व्याख्यानयतिअण्णे वि अत्थि भणिया, अतिसेसा पंच होंति आयरिए । जो अण्णस्स न कीरइ, न याऽतिचारो असति सेसे ॥ २६५४॥
अतिशेषाः पञ्च भवन्त्याचार्ये इत्येनन वचनेनान्येऽप्यतिशयाः पञ्चाऽर्थतो भणिताः सन्ति । यः पञ्चानामन्यतरोऽप्यन्यस्याऽनाचार्यस्य न क्रियते, न च शेषेऽनाचार्ये पञ्चानामनेकतरस्मिन्नप्यतिशये असति अक्रियमाणे अतीचारः । आचार्यस्य तु पञ्चाप्यतिशयाः कर्तव्याः, पञ्चानामेकतरस्मिन्नप्यक्रियमाणेऽतीचारः ॥ २६५४ ॥
तानेव पञ्चातिशयानाहभत्ते पाणे धावण, पसंसणा हत्थ-पायसोए य । आयरिए अतिसेसा अणतिसेसा अणायरिए ॥ २६५५॥
X.
गाथा ७२६५४-२६६१
आचार्यस्य
अन्ये पञ्चातिशया:
१११८ (A)
For Private And Personal Use Only