________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः १११६ (B)
बितिएहि उ सारवियं, सगडं रण्णा य उक्करा उ कया । इय जे करेंति गुरुणो, निजरलाभो य कित्ती य ॥ २६४९॥
अपरस्मिन् ग्रामे द्वितीयकैः ग्रामेयकै राजकुलकार्यनियुक्तं शकटं कृतं तेन राजकीयं धान्यं घृतघटाद्यानयन्ति नयन्ति च। तच्च शकटं तैः सम्यक् सारापितं ततो न कदाचिदाज्ञाभङ्गः कृत इति परितुष्टेन राज्ञा ते उत्करा: करविहीनाः कृताः । एष दृष्टान्तोऽयमर्थोपनयः इति एवमुक्तेन प्रकारेण ये शिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्या गुरोः कृत्यं कुर्वन्ति तेषां महती निर्जरा भूयान् ज्ञानादिलाभः कीर्त्तिश्च । गतं सापेक्षद्वारम् ॥ २६४९ ॥
सम्प्रति भक्तयव्यवच्छेदद्वारमाहदव्वे भावे भत्ती, दव्वे गणगा उ दूति जाराणं । भावम्मि सीसवग्गो, करेति भत्तिं सुयधरस्स ॥ २६५०॥
आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याऽव्यवच्छेदो भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः। । सा च भक्तिर्द्विधा-द्रव्ये भावे च। अत्र या नाम गणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो
गाथा २६४८-२६५३
आचार्यस्य | भक्तेमहत्त्वम्
१११६ (B)
For Private And Personal Use Only