________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् घष्ठ उद्देशकः १११६ (A)
तद् भग्नम्। अन्यदा राजकुलेन ते आज्ञप्ता 'धान्यमानयत' तैः शकटाऽभावान्नानीतं तत. आज्ञाभङ्गोऽकारीति तेषां दण्डः कृतः, कार्येषु समापतितेषु स्वयं ते सीदन्तो दृश्यन्ते ॥ २६४६ ॥ २६४७॥
एष दृष्टान्तोऽयमर्थोपनयःएव न करेंति सीसा, काहिंति पडिच्छयंति काऊण । ते वि य सीसत्ति ततो, हिंडणपेहादिसुं सिग्गो ॥ २६४८॥
एवं ग्रामेयकदृष्टान्तप्रकारेण शिष्याः प्रातीच्छिकाः करिष्यन्तीति कृत्वा न कुर्वन्तीति, तेऽपि च प्रातीच्छिकाः शिष्याः करिष्यन्तीति बुद्ध्या न कुर्वते। अतः सीदन् आचार्यः स्वयं भिक्षामटति स्वयं चोपकरणप्रेक्षादिकं विधत्ते इति हिण्डने प्रेक्षादौ च सिग्नः परिश्रान्तः। तेषां च शिष्य-प्रातीच्छिकानां दण्ड: प्रायश्चित्तं दीर्घसंसारिता वा ॥ २६४८ ॥ तदेवं निरपेक्षे दृष्टान्तः। सम्प्रति सापेक्षे भावयति
गाथा ४२६४८-२६५३
आचार्यस्य भक्तेमहत्त्वम्
१११६ (A)
१. एवं - मु. ॥ २. सिग्रः - मु. ॥
For Private And Personal Use Only