________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ
उद्देशकः १११५ (B)
समागच्छन् समानः समानश्रुतोऽगुरुश्च तदा तं नाभ्युत्तिष्ठन्ति ॥ २६४५ ॥ तदेवं प्रवचने निर्जरा चेति द्वारद्वयं गतम्, इदानीं सापेक्षद्वारमाहसावेक्खे निरवेक्खे, गच्छे दिटुंतो गामसगडेणं । राउलकज्जनिउत्तं, जह गामेणं कयं सगडं ॥ २६४६ ॥ अस्सामिबुद्धियाए, पडियं च न वि य रक्खंति । रण्णाणत्ते दंडो, सयं च सीयंति कज्जेसु ॥ २६४७॥
आचार्यस्य शिष्यैः प्रातीच्छिकैश्च सर्वं कर्त्तव्यं, ते च तथाकुर्वन्तः सापेक्षा उच्यन्ते; ये तु न कुर्वन्ति ते निरपेक्षाः। तत्र सापेक्षे निरपेक्षे च गच्छे दृष्टान्तो ग्रामशकटेन तद्यथाएकस्मिन् ग्रामे ग्रामेण ग्रामेयकैः पुरुषैः राजकुलकार्यनियुक्तं शकटमेकं कृतम्। ततो यत्ते राजकुलेनाज्ञाप्यन्ते धान्यं घृतघटादि वा नेतव्यमानेतव्यं वा तस्मिन् शकटे आरोप्याऽऽनयन्ति नयन्ति वा। तथा नास्य कश्चित् स्वामीत्यस्वामिबुद्ध्याऽऽत्मनोऽपि कार्याणि तेन कुर्वन्ति। अस्वामिबुद्ध्यैव पतितं शटितं वा तस्य शकटस्य नापि रक्षन्ति, ततः कालेन गच्छता
गाथा २६४०-२६४७ अभ्युत्थानकारणानि वाचनाचार्यस्य
४२११५ (B)
For Private And Personal Use Only