________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् षष्ठ
उद्देशकः १११४ (B)
प्राघूर्णकाद्यागमनं भवेत् तदा एभिः कारणैरभ्युत्थानमनुयोगो भवति ॥ २६४१ ॥
तत्र कालोऽध्ययनादिकं च प्रतीतं न प्रकृतमिति कल्पे व्यवहारे च प्रकृतप्रतिपादनार्थमाहकप्पम्मि दोण्णि पगया, पलंबसुत्तं च मासकप्पे य । दो चेव य ववहारे, पढमे दसमे य जे भणिया ॥ २६४२॥
कल्पे कल्पाध्ययने द्वे प्रकृते तद्यथा प्रलम्बसूत्रं मासकल्पश्च मासकल्पसूत्रं च, व्यवहारे च द्वे प्रकृते ये भणिते प्रथमे दशमे चोद्देशके। तत्र प्रथमे आरोपणासूत्रं, दशमे पञ्चविधव्यवहारसूत्रम् ॥ २६४२॥
न केवलमेतदेव प्रकृतं किं त्वन्यदपि । तथा चाहपेढियातो य सव्वाओ य सव्वातो चूलियातो तहेव य । निज्जुत्ती कप्पनामस्स ववहारस्स तहेव य ॥ २६४३॥
सर्वाः प्रकल्पकल्पादिगताः पीठिकास्तथा सर्वाश्शूलिकास्तथा कल्पनाम्नो व्यवहारस्य च तथा चैवेतिवचनादन्येषां च दशवैकालिकप्रभृतीनां च निर्युक्तयः प्रकृतानि ॥ २६४३॥
गाथा २६४०-२६४७ अभ्युत्थानकारणानि वाचना
चार्यस्य
|
१११४ (B)
For Private And Personal Use Only