________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः १११३ (B)
आरोवणमक्खेवं, व दाउकामो तहिं तु आयरितो । वाउलणाए फिट्टए, उग्गहिउमणो न ओगेण्हे ॥ २६३८॥
आरोवणां प्रायश्चित्तं तत्रार्थमण्डल्यामाचार्यो दातुकामः प्ररूपयितुकाम इति तात्पर्यार्थः। यद्यभ्युत्थानं करोति ततो व्याकुलतया स्फेटति व्याकुलने न प्रायश्चित्तप्ररूपणा तिष्ठतीति भावः । तथा अवग्रहीतुमना अभ्युत्थानेन व्याकुलनातो नावगृह्णाति ॥२६३८ ॥
एगग्गो ओगिण्हइ, वक्खिप्पंतस्स विस्सुतिं जाति । इंदपुर इंददत्ते, अज्जुणतेणे य दिटुंता ॥ २६३९॥ एकाग्रः सन् अवगृह्णाति, अभ्युत्थानेन पुनर्व्याक्षिप्यमानस्यावगृहीतमपि विस्मृतिं याति ||
वाचनाकाले कुतोऽनवगृहीतार्थावग्रहणं ? व्याक्षेपाच्च विस्मृतिगमने इन्द्रपुरे पत्तने इन्द्रदत्तस्य राज्ञः सुता अभ्युत्थाने दृष्टान्तः। तथा च तेषां कला अभ्यस्यतां प्रमादविकथादिव्याक्षेपान्न किमप्यवगृहीतमभूत्,
कृते दोषाः यदपि किञ्चिदपि गृहीतं तदपि विस्मृतिमुपगतमत एव तै राधावेधो न कर्तुं शकितः । तथा अर्जुनस्तेनश्च दृष्टान्तः । तथाहि-सोऽर्जुनकस्तेनोऽगडदत्तेन सह युध्यमानो न कथमप्यगडदत्तेन
गाथा २६३४-२६३९
४१११३ (B)
For Private And Personal Use Only