________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
श्री व्यवहार
अभ्युत्थानेनान्येन वा व्याकुलतायां स दर्शित उपनयो नश्यति विस्मृतिं याति, यदि वा व्याकुलतया अन्यथोपनीयते, ज्ञातं वा व्याकरणं, पृच्छा वा कर्तुमारब्धा, अद्धा वा पौरुषीलक्षणा भ्रस्यति ॥ २६३६॥
सूत्रम्
षष्ठ उद्देशकः
१११३ (A)
आक्षेपव्याख्यानार्थमाहभासतो सावतो वा वि, तिव्वसंजायमाणसो । लभंतो ओहिलंभादी, जहा मुंडिवगो मुणी ॥ २६३७॥ निरन्तरमविच्छेदेन भाषकः श्रावको वा उत्तरोत्तरविशिष्टार्थावगाहनतस्तीव्रसञ्जातमानसो जातपरमाक्षेपो यद्यभ्युत्थानेन व्याक्षेपो नाभविष्यत् ततोऽवधिलाभादिकमलप्स्यत, यथा मुण्डिवको मुनिस्तथा[च-] मुण्डिवक आचार्यः परमकाष्ठीभूते शुभध्याने प्राप्तोऽवधिमलप्स्यत यदि तस्य पुष्यमित्रेण ध्यानविघ्नो नाऽकरिष्यत् परं सर्वं साधुसाध्वीप्रभृत्याकुलमभवदिति तेन ध्यानव्याघातः कृतः ।। २६३७ ।।
'अधुना आरोवणा परूवणे 'ति व्याख्यानार्थमाह
गाथा २६३४-२६३९ वाचनाकाले अभ्युत्थाने कृते दोषाः
१११३ (A)
For Private And Personal Use Only