________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
११११ (A)IX
कारणैः? अत आह- विक्खेवया य इति व्याक्षेपस्य व्याक्षेपशब्दस्य भावः प्रवृत्तिनिमित्तं व्याक्षेपता, व्याक्षेप इत्यर्थः । अभ्युत्थाने क्रियमाणे व्याक्षेपो भवति, व्याक्षेपाच्च विकथा चतुर्विधा प्रवर्तते, तत्प्रवृत्तौ चेन्द्रियैर्मनसा विश्रोतसिका संयमस्थानप्लावनमिति भावः । तस्मादभ्युत्थानमकुर्वन् प्रयतः शृणुयात्, प्रयतो नाम कृताञ्जलिप्रग्रहो दृष्टया सूरिमुखारविन्दमवेक्षमाणो बुद्ध्युपयुक्तः,तथाऽभ्युत्थाने क्रियमाणे उपनयस्य विषये व्याकुलना उपनयव्याकुलना उपनयः कस्याप्यर्थेन क्रियते अन्यथा वा क्रियेत, उपनयग्रहणमुपलक्षणं तेन यद्ग्रहणं ज्ञातं तत् व्याकुलनात् भ्रश्यति, पृच्छा वा कर्तुमारब्धा विस्मृतिमुपयाति, कालो वा व्याख्यानस्य त्रुट्यतीति। तथा निरन्तरमविच्छेदेन भाषमाणस्य शृण्वतो महान् आक्षेपस्तीव्रशुभपरिणामरूपो यतो जायते, अभ्युत्थाने च तद्व्याघातः। तथा च सति शुभपरिणामभावतो योऽवध्यादिलाभः सम्भाव्यते तस्य विनाशः। अत्रार्थे चाऽऽहरणं ज्ञातं वक्तव्यम्। तथा आरोपणायाः प्रायश्चित्तस्य प्ररूपणा क्रियमाणे अभ्युत्थाने व्याघातो भवति। व्याघाताच्च सम्यगवग्रहो ग्रहणं न भवति, न खल व्याक्षिप्तोऽवग्रहीतुं शक्नोति किन्त्वव्याक्षिप्त इति प्रतीतमेतत्, तथा अभ्युत्थाने क्रियमाणे व्याकुलना, ततः सम्यक्श्रुतोपयोगो न भवति तदभावाच्च न ज्ञानावरणीयस्य कर्मणो निर्जरा। एतैः कारणैरभ्युत्थानं प्रतिकुष्टम् ॥ २६३०॥
गाथा ४२६२८-२६३३
वाचनाकाले व्याक्षेपनिषेधः
११११ (A)
For Private And Personal Use Only