________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Y
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः १११० (B)
सोयव्वे उ विही इणमो, अविक्खेवादि होंति नायव्वो । विक्खेवम्मि य दोसा, आणादीया मुणेयव्वा ॥ २६२९॥
श्रोतव्ये पुनरयं विधिः अव्याक्षेपादिर्भवति ज्ञातव्यः, आदिशब्दात् विकथादिपरिग्रहः, व्याक्षेपे पुनराज्ञादय आज्ञाऽनवस्था मिथ्यात्व-विराधनारूपा दोषा ज्ञातव्याः । अत एवाभ्युत्थानमपि न क्रियते, तस्मिन् सति व्याक्षेपादिसम्भवात् ॥ २६२९॥ तथा चैतदर्थमेतद्वारगाथामाहकाउस्सग्गे विक्खेवया य, विकहा विसोत्तिया पयतो । उवणयवाउलणा वि य, अक्खेवो चेव आहरणे ॥ २६३०॥ आरोवणा य परूवणा उग्गह तह निजरा य वाउलेण । एएहि कारणेहिं, अब्भुट्ठाणं तु पडिकुटुं ॥ २६३१॥ अनुयोगारम्भनिमित्तं कायोत्सर्गे कृते एतैः कारणैरभ्युत्थानं प्रतिक्रुष्टं निराकृतम्। कैः
गाथा २६२८-२६३३ वाचनाकाले व्याक्षेपनिषेधः
११११० (B)
For Private And Personal Use Only