________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम्
त्वमप्यस्यामास्थानिकायामुपविष्टो गुरून् मुक्त्वाऽन्यस्य कस्यापि महीयसोऽपि नोत्तिष्ठन्ति(सि)अहमपि तवास्थानिकायां त्वदीयां लीलां धरन्ती समुपविष्टा ततो न सपरिवाराऽप्यभ्युत्थिता, यदि पुनस्ते तव लीला न कृता स्यात् ततोऽहमभ्युत्तिष्ठेयमित्येवं राजा देव्या तोषितः। एवमत्रापि तीर्थकरस्थानीय आचार्योऽर्थमण्डल्यामुपविष्टः सन् न कस्याप्यभ्युत्तिष्ठति ॥ २६२७ ॥
षष्ठ
उद्देशकः १११० (A)
अमुमेवार्थं गौतमदृष्टान्तेन दृढयतिकहेंतो गोयमो अत्थं, मोत्तुं तित्थगरं सयं । न वि उद्वेति अन्नस्स, तग्गयं चेव गम्मति ॥ २६२८॥
न खलु भगवान् गौतमोऽर्थं कथयन् स्वकमात्मीयं तीर्थंकरं मुक्त्वा अन्यस्य कस्यापि उत्तिष्ठति अभ्युत्थानं कृतवान् । तद्गतं चेदानीं सर्वैरपि गम्यते तदनुष्ठितं सर्वमिदानीमनुष्ठीयत॥ ततोऽर्थं कथयन् न कस्याप्युत्तिष्ठति ॥ २६२८॥
गाथा २६२८-२६३३ वाचनाकाले व्याक्षेपनिषेधः
४१११० (A)
सम्प्रति श्रवणविधिमाह
For Private And Personal Use Only