SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११०९ (A) सूत्रमण्डल्यां वाचयन्त आचार्यादय आचार्योपाध्यायप्रभृतयः प्राघूर्णकादीनामागच्छतां सर्वेषामपि नियमादत्तिष्ठन्ति अभ्युत्थानं कुर्वन्ति । अर्थमण्डल्यां पुनरुपविष्टः सन् यस्य समीपेऽनुयोगः श्रुतस्तमेकं प्रवाचयन्तं मुक्त्वा अन्यं दीक्षणगुरुमपि [नाभ्युत्तिष्ठति यदि] अभ्युत्तिष्ठति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः। श्रोतारोऽपि यद्याचार्ये अनभ्युत्तिष्ठत्यभ्युत्तिष्ठन्ति तदा तेषामपि प्रायश्चित्तं चतुर्गुरुकम्। यदि पुनर्यस्य समीपेऽनुयोगं श्रुतवान् तस्य नाभ्युत्तिष्ठति तर्हि तदापि तस्य चतुर्गुरुकम्। अत्र दृष्टान्तो राज्ञो याने देवी ॥ २६२४॥ तं [एव] भावयति गाथा पतिलीलं करेमाणी, नोट्ठिया सालवाहणा । २६२१-२६२७ पुहवी नाम सा देवी, सो य रुट्ठो तहिं निवो ॥ २६२५॥ सूत्रा-ऽर्थ तदुभयानां राज्ञः शातवाहनस्य पृथिवी नाम अग्रमहिषी, अन्यदा सा क्वाऽपि निर्गते राज्ञि || क्रमश: शेषाभिरन्तःपुरिकाभिः देवीभिः संपरिवृता शातवाहनवेषमाधाय राज्ञ आस्थानिकायामुपविष्टा, प्राबल्यम् पतिलीलां विडम्बमानाऽवतिष्ठते, राजा प्रत्यागतः प्रविष्टः,तस्मिन् प्रदेशे सा च पतिलीलां ११०९ (A) १. शालवाहनस्य - पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy