________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११०७ (A)
www. kobatirth.org
सिंहस्त्रिपृष्ठेन निहतः स संसारं भ्रमित्वा राजगृहे कपिलस्य ब्राह्मणस्य बटुकोऽभूत्। जिनस्य वीरस्य कथनं, तथापि तस्याऽनुपशमः गौतमेन चानुशासने कृतेऽभूदुपशमो दीक्षा च। अत्र भगवदपेक्षया हीनगुणेऽपि गौतमे तस्य गुरुः परिणामोऽजायतेति महती निर्जराऽभवदिति ॥ २६१८ ॥
सम्प्रति 'सुत्तत्थे' इत्यस्य व्याख्यानमाह
सुत्ते अत्थे तदुभये, पुव्विं भणिया जहोत्तरं बलिया ।
मंडलिए पुण भयणा, जइ जाणइ तत्थ भूयत्थं ॥ २६१९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रेऽर्थे तदुभये यस्मिन् स्वस्थाने निर्जरा पूर्वं यथोत्तरं बलिका बलवतीति भणिता । सम्प्रति पुनः सूत्रा - Sर्थ - तदुभयेषु युगपच्चिन्त्यमानेषु यथोत्तरं निर्जरा बलवती । साम्प्रतं 'मण्डली चेव' त्ति व्याख्यानार्थमाह- मंडलिए पुण इत्यादि, मण्डल्याः पुनर्भजना विकल्पना, यदि जानाति तत्र मण्डल्यां भूतार्थं सद्भूतमर्थं तदा स महानिर्जराकः । इयमत्र भावना-मण्डल्यां पठन्ति पाठयन्ति च । तत्राऽऽवश्यकादि पठतां यथोत्तरं पाठिनो बलिकाः । अथ जानाति वैयावृत्त्यकरो यथा अधस्तनसूत्रपाठको ज्ञानादिभिर्गुणैरधिकतरस्ततोऽधस्तन श्रुतपाठकस्य
For Private And Personal Use Only
*
गाथा
| २६१६-२६२० निर्जराया बलवत्तादिः
११०७ (A)