________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः ११०७ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वैयावृत्त्यकरणे महती निर्जरा। ददतां मध्ये य उपरितनश्रुतवाचकः स ज्ञानादिभिरधिकतर इति तद्वैयावृत्त्यकरणे महती निर्जरा। अथ जानाति वैयावृत्त्यकरो यथा अधस्तनश्रुतवाचको ज्ञानादिभिरधिकतरस्ततोऽधस्तन श्रुतवाचकस्य वैयावृत्त्यकरणे बलवती निर्जरा, वाचकप्रतीच्छकानां मध्ये यो वाचकस्तद्वैयावृत्त्यकरणे महती निर्जरा। अथ वैयावृत्त्यकरो जानात्येष प्रतीच्छक आचार्यों वाच्यते ततः प्रत्युज्ज्वालनामात्रं, यावता सर्वमेतस्याऽऽयाति सूत्रतोऽर्थतश्चाधिकतर इति तदा तस्य प्रतीच्छकस्य वैयावृत्त्यकृतौ महती निर्जरा ॥ २६१९ ॥
इह सूत्रेऽर्थे तदुभये च यथोत्तरं बलवती निर्जरेत्युक्तं तत्र यथोत्तरं निर्जराया बलवत्तां भावयति
गाथा अत्थो उ महिड्डितो कडकरणेणं घरस्स निप्फत्ती ।
२६१६-२६२०
निर्जराया अब्भुट्ठाणे गुरुगा, रणो याणे य देवी य ॥ २६२० ॥
बलवत्तादिः सूत्रात् केवलात् अर्थाद्वा ससूत्रोऽर्थो महर्द्धिकः । किं कारणमिति चेद् ? उच्यते - अत्र ||११०७ (B) कृतकरणेन गृहस्य निष्पत्तिर्दृष्टान्तः । इतश्च सूत्रादर्थः ससूत्रो महर्द्धिकः । सूत्रमण्डल्यामा
For Private And Personal Use Only