________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११०५ (A)
www. kobatirth.org
इहाचार्यः प्रस्तुतस्तमधिकृत्य वैयावृत्त्यकरणे महतीं निर्जरामाह
पावयणी खलु जम्हा, आयरितो तेण तस्स कुणमाणो । महतीए निज्जराए, वट्टति साहू दसविहम्मि ॥ २६१२ ॥
प्रवचनी प्रावचनिकः खलु यस्मादाचार्यस्तेन तस्य वैयावृत्त्यं कुर्वन् साधुर्महत्यां निर्जरायां वर्त्तते । एवं दशविधेऽपि वैयावृत्त्ये महानिर्जराकत्वं भावनीयम् ॥ २६१२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति यदुक्तं 'भावे शुद्धे अशुद्धे च तदनुसारतो निर्जरा भवतीति' तत्र शुद्धो भावो व्यवहारतः शुद्धवस्तुप्रभावाद् भवतीति प्रतिपिपादयिषुराह
जारिसगं जं वत्थं, सुयं च तिन्हं व ओहिमादीणं । तारिसतो च्चिय भावो, उप्पज्जति वत्थुतो तम्हा ॥ २६१३ ॥
For Private And Personal Use Only
गाथा
२६०९-२०१५
भावानुसारं निर्जरा
यादृशं यद् वस्तु प्रतिमादिकं यस्य यावच्च श्रुतं त्रयाणां चावध्यादीनां स्वस्थाने ये विशेषास्तस्मात् वस्तुनः श्रुताद् विशेषाद्वा तादृशाद् भावः परिणामो व्यवहारतस्तादृश भ उत्पद्यते तदनुसारेण च निर्जरा, ततः पूर्वश्रुतचिन्तायामर्थचिन्तायां तथा जिनानां च यथोत्तरं
| ११०५ (A)