________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् षष्ठ उद्देशक ११०३ (A)
असति अवमौदर्यादिना गच्छसंस्तरणाभावे प्रतिलोमं गणावच्छेदकादारभ्य प्रतिकूलगमनमवसातव्यम् । तद्यथा-प्रतिवृषभादिभिरसंस्तरणे गणावच्छेदोऽपि प्रतिवृषभादिभिः सह हिण्डते, तथाप्यसंस्तरणे स्थविरोऽपि, तथाप्यसंस्तरणे प्रवर्तकोऽपि, तथाप्यसंस्तरणे उपाध्यायोऽपि, तथा चेत्र संस्तरति तदा स्वग्रामे दानश्राद्धेषु कुलेष्वाचार्यस्य गमनं भवति । तथापि चेदसंस्तरणं तत आचार्यो अन्यान्यपि गृहाणि । तथा केनापि साधुना कस्मिंश्चित् कुले ग्लानप्रायोग्यं किमपि द्रव्यं याचितं परं न लब्धमथ च तद् द्रव्यं तस्मिन् गृहे प्रभूतमस्ति अन्यत्र च न विद्यते, तत्र यदि द्वितीये दिवसे तस्मिन् कुले येन[न]लब्धं तमेवाचार्यः प्रेषयति ततो गुरुकं मासिकं प्रायश्चित्तमापद्यते, तस्मात् तस्मिन् कुले प्रतिलोमं प्रेषयितव्यः । तद्यथा-प्रथमं गणावच्छेदक: प्रेष्यः, तेनाप्यलब्धे स्थविरः, तेनाऽप्यलब्धे प्रवर्तकस्तेनाप्यलब्धे उपाध्यायः, तेनाप्यलब्धे स्वयमाचार्यो व्रजति। यदि वा स गृहप्रभुर्यस्य गौरवं करोति स प्रेषयितव्यः ॥ २६०६॥
साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो गाथापूर्वार्द्ध भावयतिगणावच्छेदतो पुव्वं, ठवणकुलेसुं व हिंडइ सगामे॥ एवं थेरपवित्ती, अभिसेयगुरू य पडिलोमं ॥ २६०७॥
गाथा .२६०३-२६०८
आचार्यस्य भिक्षागमनकारणानि
४११०३ (A)
For Private And Personal Use Only