________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः ११०२ (A)
ददध्वमिति । एवमकोविदानां सहायानां भावे प्रलम्बविकरणनिमित्तमाचार्यो गच्छति । एवमेव कर्कशेऽपि क्षेत्रे भिक्षार्थं गमनमाचार्यस्य भवति, तत्राप्यसंस्तरणे अकोविदसहायभावे प्रलम्बविकरणाय वा गच्छतीति । तथा असतित्ति नाम सहायका न सन्ति ततः स्वयमेव भिक्षामटति ॥२६०२॥
बहुया तत्थ अतरंता, अहव गिलाणस्स सो परं लहति । दारं ४। एमेव य आदेशे, सेसेसु विभासबुद्धीए ॥२६०३॥ दारं ५।
बहवस्तत्र गच्छे अतरन्तो ग्लानास्ततः सर्वेषां गच्छसाधवः प्रायोग्यमुत्पादयितुमशक्ताः, अथवा ग्लानस्य परं प्रायोग्यमन्यो न लभते किन्तु स एवाचार्यः,ततः स हिण्डते, एवमेवादेशेषु प्राघूर्णकेषु शेषेषु च बालवृद्धाऽसहेषु विभाषा विविधं भाषणं स्वबुद्ध्या कर्त्तव्यं, तच्चैवं यद्यादेशादयो बहवः [ततश्च]सर्वेषां साधवः कर्तुं न शक्नुवन्ति यदि वा स एवादेशादिप्रायोग्यं लभते नान्यः कोऽपि, ततः स हिण्डते ॥ २६०३ ॥
गाथा २६०३-२६०८
आचार्यस्य भिक्षागमनकारणानि
११०२ (A)
सम्प्रति 'संथरणमाणे भइतो' इति व्याख्यानयति
For Private And Personal Use Only