________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
४
सूत्रम्
.
.
षष्ठ
उद्देशकः ११०१ (B)
मध्याह्नादारभ्य भिक्षार्थमवतीर्णानां पर्याप्तं हिण्डित्वा वसतावागतानां भुक्तानां संज्ञातः संज्ञाभूमीत आगतानां यदि चतुर्थी पौरुषी अवगाहते एतत् मध्यमं संस्तरणं भवति । मध्याह्नादारभ्य भिक्षामटित्वा भुक्त्वा संज्ञाभूमीतः प्रत्यागतमात्रेषु विसुयाविएसु विशोधितेसु सूरास्तमयेन दिनं समतिक्रामति जघन्यं संस्तरणमवसातव्यम् ॥ २६०१॥
तदेवमुक्तं जघन्यादिभेदभिन्नं संस्तरणम्,इदानीमध्वादिद्वारव्याख्यानार्थमाहअद्धाणेऽसंथरणे, अकोवियाणं विकरणपलंबो । दारं १। एमेव कक्खडम्मि वि । दारं २।, असतित्ति सहायगा नत्थि ॥ २६०२॥
दारं ३। अध्वनि सार्थेन समं व्रजताऽसंस्तरणे भिक्षार्थमाचार्यो हिण्डते, अथवा ते सहाया अकोविदाः सार्थे च प्रलम्बान्यविकरणकृतान्यखण्डीकृतानि लभ्यन्ते, तत आचार्यः स्वयमेव हिण्डमानस्तानि विकरणानि कृत्वा सन्निवर्त्तते, अथवा ददतामुपदेशं ददाति विकरणानि कृत्वा
गाथा २५९८-२६०२ संस्तरणत्रैविध्यम्
११०१ (B)
.
१. प्रत्यागत्यमा० मु.॥
For Private And Personal Use Only