________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देशकः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
११०० (B)
पंच वि आयरियादी, अच्छंति जहन्नए वि संथरणे । एवं पऽसंथरंते, सयमेव गणी अडति गामे ॥ २५९९ ॥
www. kobatirth.org
तत्र प्रथममुत्कृष्टं संस्तरणमाह
जघन्येऽपि वक्ष्यमाणस्वरूपे संस्तरणे पञ्चाप्याचार्योपाध्याया-प्रवर्त्ति स्थविरगणावच्छेदिनस्तिष्ठन्ति, जघन्येऽपीति अपिशब्दः सम्भावने, स चैतत् सम्भावयति यदि तावत् जघन्येऽपि संस्तरणे पञ्चाप्याचार्यादयस्तिष्ठन्ति । ततो मध्यमे उत्कृष्टे च संस्तरणे नियमात् पञ्चभिरपि स्थातव्यम् । एवमपि जघन्येनापि संस्तरणेन असंस्तरति गच्छे स्वयमेव गणी * आचार्यो ग्रामे भिक्षामटति । स च प्रतिलोमपरिपाट्या पर्यन्ते । तथाहि - जघन्येनाऽपि संस्तरणेनाऽसंस्तरति प्रथमं गणावच्छेदो हिण्डते, तथाप्यसंस्तरणे स्थविरोऽपि हिण्डते, एवमप्यसंस्तरणे प्रवर्त्यपि तथाऽप्यसंस्तरणे उपाध्यायोऽपि तथाऽपि चेन्न संस्तरति गच्छस्तत आचार्योऽपि ॥ २५९९ ॥
९. एवं पि असं इति ज्ञेयम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
गाथा
| २५९८- २६०२ संस्तरणत्रैविध्यम्
܀܀܀܀܀܀
११०० (B)