________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११०० (A)
सम्प्रति यैः कारणैराचार्येण भिक्षार्थमटितव्यं तानि कारणान्याहअद्धाण१ कक्खडारऽसति३, गेलना४ ऽऽदेसमाइएसुं५ च । संथरमाणं भइतो६, हिंडेइ असंथरंतम्मि७॥ २५९८॥
अध्वानं प्रपन्नः सार्थेन सममाचार्यो गच्छश्च, तत्र चासंस्तरणे यदि सार्थिका आचार्यस्य गौरवेण प्रयच्छन्ति ततः स्वयमाचार्यो हिण्डते, एवं कर्कशेऽपि क्षेत्रे भावनीयम्। तथा - असति सहायानामभावे को भिक्षामानीय ददातीति स्वयं हिण्डते तथा ग्लाना बहवस्ततस्तेषां सर्वेषामपि गच्छसाधवः प्रायोग्यमुत्पादयितुमशक्ताः अथवा ग्लानप्रायोग्यमन्यः कोऽपि न लभते तत आचार्यों हिण्डते । एवमादेशाः प्राघूर्णकाः, आदिशब्दात् बाल-वृद्धाऽसहपरिग्रहः, तेष्वपि भावनीयम् । एतेषु विषये असंस्तरति गच्छे नियमादाचार्यो हिण्डते, अन्यथा प्रायश्चित्तसम्भवात्, संस्तरति पुनर्भक्तो विकल्पितः, कदाचित् हिण्डते कदाचिन्न । अभ्युद्यतविहारपरिकर्म कुर्वन् हिण्डते, शेषकालं नेत्यर्थः । एष द्वारगाथासक्षेपार्थः ॥ २५९८॥ |
अत्र यदुक्तं 'संस्तरणे न हिण्डते इति' तत्र संस्तरणं त्रिविधं जघन्यं, मध्यममुत्कृष्टं च, | तत्र जघन्यमधिकृत्याह
गाथा २५९८-२६०२ संस्तरणत्रैविध्यम्
११०० (A)
For Private And Personal Use Only