________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् षष्ठ उद्देशकः १०९९ (B)
सोउं परबलमायं, सहसा एक्काणिओ उ जो राजा । निग्गच्छति सो चयती, अप्पाणं रजमुभयं च ॥ २५९६ ॥
यो निरपेक्षो राजा परबलमागतं श्रुत्वा बलवाहनानि अमेलयित्वा सहसा एकाकी परबलस्य सम्मुखो निर्गच्छति स आत्मानं राज्यमुभयं च त्यजति, बलवाहनव्यतिरेकेण युद्धारम्भे मरणभावात्। एवमाचार्योऽपि निरपेक्षः समुत्पन्नेऽपि कारणे सहसा भिक्षामटन्नात्मानं गच्छमुभयं च परित्यजति ॥ २५९६ ॥
सापेक्षदण्डिकदृष्टान्तभावनामाहसावेक्खो पुण राया, कुमारमादीहिं परबलं खविया । अजिए सयं पि जुज्झइ, उवमा एसेव गच्छे वि ॥ २५९७॥
सापेक्षः पुना राजा प्रथमं कुमारादीन् युद्धाय प्रेषयति, ततः कुमारादिभिः परबलं क्षपयित्वा यदा कुमारैर्न पराजीयते परबलं तदा तस्मिन्नजिते स्वयमपि राजा युध्यति एषैवोपमा गच्छेऽपि द्रष्टव्या। आचार्योऽपि पूर्वं यतनां करोति तथापि असंस्तरणे स्वयमपि | हिण्डते, एवं चात्मानं गच्छमुभयं च निस्तारयतीति भावः ॥ २५९७॥
गाथा २५९०-२५९७ भिक्षाटने जयणा
१०९९ (B)
For Private And Personal Use Only