________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देशकः
१०९९ (A)
܀܀܀܀܀
www. kobatirth.org
एमेव विणीयाणं, करेंति सुत्तत्थसंगहं थेरा ।
हावेंति उदासीणे, किलेसभागी य संसारे ॥ २५९४ ॥
एवमेव कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्याः सूत्रार्थसङ्ग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति, यस्तूदासीनस्तत्र हापयन्ति, न प्रयच्छन्तीति भावः । स चोदासीनो वर्त्तमानो न केवलं सूत्रार्थाऽयोग्योऽभवत् क्लेशभागी च संसारे जायते ॥ २५९४ ॥
गतं ध्यामनद्वारम् । सम्प्रति दण्डिकदृष्टान्तं विभावयिषुरिदमाह
उप्पण्ण कारणे पुण, जइ सयमेव सहसा गुरु हिंडे ।
अप्पाण गच्छमुभयं परिचयती तत्थिमं नायं ॥ २५९५ ।। दारं ३ ।
Acharya Shri Kailassagarsuri Gyanmandir
उत्पन्नेऽपि कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुर्भिक्षां हिण्डते तर्हि स गुरुरात्मानं गच्छमुभयं च परित्यजति, तत्र चेदं वक्ष्यमाणं ज्ञातमुदाहरणम् ॥ २५९५ ॥
तदेवाह
For Private And Personal Use Only
गाथा २५९०-२५९७ भिक्षाटने
जयणा
१०९९ (A)