________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः १०९८ (B)|
ततः किमकार्षीद् ? इत्यत आहजे उ सहायगत्तं, करेसु तेसिं अवद्धियं दिन्न । दद्धं ति न दिण्णियरे, अकासगा दुक्खजीवी य ॥ २५९२॥
ये तु विध्यापने सहायत्वमकार्षुस्तेषामवृद्धिकं कलान्तररहितं धान्यं दत्तम्, इतरेषां तु सहायत्वमकृतवतां दग्धमित्युत्तरं विधाय न दत्तं ततस्ते अकर्षकाः सन्तो दःखजीविनो जाताः । एष दृष्टान्तः ।। २५९२ ॥
साम्प्रतमुपनयमभिधित्सुराहआयरिय कुटुंबीवा, सामाणियथाणिया भवे साहू । वावाह अगणितुल्ला, सुत्तत्था जाण धन्नं तु ॥ २५९३॥
आचार्यः कुटुम्बी इव कुटुम्बितुल्य इत्यर्थः । सामान्यकर्षकस्थानीयाः साधवः । आचार्यस्य |* भिक्षाटने वातादिव्याबाधा अग्नितुल्या। सूत्रार्थान् जानीहि धान्यं धान्यतुल्यान् ॥२५९३ ॥
गाथा
२५९०-२५९७ भिक्षाटने जयणा
१०९८ (B)
For Private And Personal Use Only