________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः १०९८ (A)
वड्डी धन्नसुभरियं, कोट्ठारं डज्झते कुटुंबिस्स । किं अम्ह मुहा देइ, केई तहियं न अल्लीणा ॥ २५९०॥ दारं २।
एक: कौटुम्बिकः स कर्षकाणां कारणे समुत्पन्ने वृद्ध्या कलान्तररूपया धान्यं ददाति, तया च वृद्ध्या कौटुम्बिकस्य कोष्ठागाराणि धान्यस्य सुभृतानि जातानि । अन्यदा च तस्यैकं कोष्ठागारं वृद्धिधान्यसुभृतं वह्निना प्रदीप्तेन दह्यते, तत्र केचित् कर्षका विध्यापननिमित्तं तत्र दह्यमाने कोष्ठागारे न समागताः, 'किमेष कौटुम्बिकोऽस्माकं मुधा ददाति येन वयं विध्यापनार्थमभ्युद्यता भवामः?' ॥२५९० ॥
एतस्स पभावेणं, जीवा अम्हे ति एव नाऊणं । अण्णे उ समल्लीणणा, विज्झविए तेसि सो तुट्ठो ॥ २५९१॥
अन्ये कर्षका एतस्य कौटुम्बिकस्य प्रभावेण वयं जीवन्ति स्म, जीवा अच् प्रत्ययः, जीविता इत्यर्थः, एवं ज्ञात्वा समालीनास्तत्र समागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्ठागारे स कौटुम्बिकस्तेषां तुष्टः ॥ २५९१ ॥
गाथा २५९०-२५९७ भिक्षाटने जयणा
१०९८ (A)
For Private And Personal Use Only