________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
वातादयो दोषा गुरोर्भवन्ति इतरेषां साधूनां किं ते न भवन्ति? भवन्त्येवेति भावः । ततो हिण्डनदोषे तुल्य आत्मनो रक्षा क्रियते, शिष्याणां च त्यागः इत्यसमता नेदं समञ्जसमित्यर्थः ॥ २५८८॥
अन्यच्च
१०९७ (B)
दसविहवेयावच्चे, निच्चं अब्भुट्ठिया असढभावा । ते दाणि परिच्चत्ता, अणुजमंताण दंडो य ॥ २५८९॥
दशविधे आचार्यादिभेदतो दशप्रकारे वैयावृत्त्ये नित्यं सर्वकालमशठभावाः सन्तोऽभ्युत्थितास्ते सम्प्रति वातादिदोषान् पश्यद्भिरपि भिक्षाटने प्रेष्यमाणाः परित्यक्ताः।। तथा दशविधे वैयावृत्त्ये नोद्यच्छन्ति ततस्तेषामनुद्यच्छतामाचार्यादिवैयावृत्त्याऽकरणे यथार्ह । प्रायश्चित्तदण्डो दीयते ॥ २५८९॥
तदेवं "सीसा य परिच्चत्ता" इति भावितमिदानीं "कुडुंबिझामणया" इति दृष्टान्तं | भावयति
गाथा २५८४-२५८९
कारणे भिक्षागमने
यतना
१०९७ (B)
For Private And Personal Use Only