________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९६ (A)
सोउं पडिच्छिऊणं, व गया अहवा पडिच्छणे खिंसा । हिंडंति होइ दोसा, कारण पडिवत्तिकुसलेहिं ॥ २५८४॥
भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते अथवा क्षणमात्रं प्रतीक्ष्य हीलयन्त्यौ गत॥ यदि वा यावदाचार्य आगच्छति तावत् प्रतीक्षमाणे हीलयतः। अथवा प्रस्विन्नशरीरं परिगलत्प्रस्वेदमागतं दृष्ट्वा खिंसतः, यदि वा क्लमेन सुष्ठ कृतं वदनं परिश्रमेण वा न सुष्ठु वचनविनिर्गमस्तत उत्थिते हीलयतो यथा 'पिण्डोलक इवैष भिक्षामटति किमाचार्यत्वमस्य?' एते भिक्षां हिण्डमाने दोषाः । यदि पुन: कारणे वक्ष्यमाणे भिक्षार्थं गतो भवेत्, राजादयश्च तत्रागताः,ते च पृच्छेयुः- 'क्व गत आचार्यः?' तत्र ये प्रतिपत्तिकुशला-स्तैर्नेदं प्रतिवक्तव्यं 'भिक्षार्थं गत' इति। [किन्तु] 'चैत्यवन्दननिमित्तं गत' इति।
ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीवदक्षा गीतार्थास्ते सुन्दरं पानकं प्रथमालिकां च सुन्दरं कल्पं चोलपट्टं च गृहीत्वाऽऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति। तत आचार्यो मुखहस्तपादादि प्रक्षाल्य प्रथमालिकां पानकं च कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते यथा अनाख्यातोऽपि राजादिभिर्जायते एष
गाथा २५८४-२५८९
कारणे | भिक्षागमने
यतना
१०९६ (A)
For Private And Personal Use Only