________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः
१०९१ (A)
गयमागयम्मि लोए, सीसा वि तहेव तस्स गच्छंति । सयमेव दुट्ठजिब्भो, सीसे विणइस्सती केण ?॥ २५६६॥
गतागमोऽयं स्वभावतो लोकः, पितृस्वभावं पुत्रोऽनुकरोतीति भावः । ततो गतागमेऽस्मिन् लोके यथाचार्यो गच्छति चेष्टते शिष्या अपि तस्य तथैव गच्छन्ति वर्तन्त ॥ | त्वं च स्वयमेव इत्थं दुष्टजिह्वस्तत: केन प्रकारेण शिष्यान् विनेष्यति शिष्ययिष्यति? नैव कथञ्चनेति भावः। ततस्तेऽपि त्वत्सदृशा भविष्यन्तीति ॥२५६६॥
पडिसेहतमजोग्गं, अण्णस्स वि दुल्लहं हवइ भिक्खं । सद्धाभंगऽचियत्तं, जिब्भादोसो अवण्णो य ॥ २५६७ ॥
अयोग्यम अकारकं प्रतिषिध्यमानं महान्तमपगुणं करोति, कोऽसावपगुण? इत्याह - अन्यस्यापि साधोर्दुर्लभं भवति भैक्षं, नैते यद्वा तद्वा गृह्णन्तीत्यदानात्। तथा अकारकस्य प्रतिषेधने कस्या अपि महत्याः श्रद्धाया भङ्गः। अपरस्याऽपि अचियत्तमप्रीतिः । ततस्तद्वशादवर्णो जिह्वादोष उत्पद्यते ॥ २५६७।।
सम्प्रति यदुक्तं "राजनिमन्त्रणाऽग्रहणे खिंसनम्' इति तत्र तदेव खिंसनमाह
गाथा २५६४-२५६९
आचार्यस्य भिक्षाटने दोषाः
१०९१ (A)
For Private And Personal Use Only