________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
षष्ठ उद्देशकः १०९० (B)*
गहाण'। स प्राह 'न कल्पते राजपिण्ड' इति । एवं निमन्त्रणानन्तरमग्रहणे राज्ञा भण्यते 'साधो! किं तव पतद्ग्रहे समस्ति ततो दर्शितेऽन्तप्रान्तादिके वासिकादौ च राजा तत् । दृष्ट्वा खिंसनं कुर्यात् । तथा आचार्योऽलब्धिको भवेत् स चेत् ग्लानादिनिमित्तं शिष्यान् प्रातीच्छिकांश्च व्यापारयेद् यथा-'ग्लानादीनां योग्यमानयत' ते चाऽलब्धिकं ज्ञात्वा परिभवमुत्पादयन्तीति तेषां व्यापारणात् दुःखम् एष द्वारगाथासमासार्थः ॥२५६४॥
साम्प्रतमेनामेव विवरीषुः लजां मुक्त्वा अकारकद्रव्यप्रतिषेधने ये दोषास्तानाहजेणेव कारणेणं, सीसमिणं मुंडियं भदंतेण ।
गाथा वयणघरवासिणी वि हु, न मुंडिया ते कहं जीहा ॥ २५६५॥
२५६४-२५६९
आचार्यस्य येनैव कारणेन हेतुना भदन्तेन गुरुणा तव शीर्षमिदं मुण्डितं तेनैव कारणेन तव
भिक्षाटने जिह्वाऽपि वदनगृहवासिनी 'ममैतदकारकमन्यद्देही 'ति ब्रुवाणा कथं न मुण्डिता? येनैवं || दोषाः न भाषते ॥ २५६५॥
१०९० (B) यथा
For Private And Personal Use Only