________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
।
व्यवहारसूत्रम्
षष्ठ उद्देशकः १०९० (A)
शिष्याः प्रातीच्छिकाश्च भिक्षां प्रविष्टाश्चिन्तयन्ति-यदि सूरिरपि भिक्षार्थं विनिर्गतो भविष्यति ततो वयं प्रतिश्रयं गत्वा कस्य पुरत आलोचयिष्यामः ? कस्य वा भक्तं पानं वा दर्शयिष्यामः? कं वाऽन्यं साधुं तत्र गताः छन्दयामो निमन्त्रयामः? यतो भिक्षामटत्याचार्ये कोऽन्यः साधुः स्थातुमुत्सहते ? सर्वेऽपि भिक्षां यान्तीति भावः। तथाहि-सर्वे साधवो भिक्षामटत्याचार्ये चिन्तयन्ति- यदि स्वयमाचार्यो भिक्षां हिण्डते काऽस्माकं शक्तिः पश्चात् स्थातुम्? वयमपि यास्यामः । एवं सर्वस्यापि गमने निमन्त्रणाऽपि कस्य स्यादिति विचिन्त्य बहिरेव समुद्दिश्य वसतावागच्छेयुरिति ॥ २५६३ ॥ गतं मेढिद्वारम् । इदानीमकारकद्वारमाह
णीणिए अकारगम्मी, दव्वे पडिसेहणा हवति दुक्खं । रायनिमंतणगहणे, खिंसण वावारणा दुक्खं ॥ २५६४ ॥ दारं ७। भिक्षामटत आचार्यस्य यदकारकं तस्य तत् भिक्षार्थं निष्काशितं तस्मिन् अकारके द्रव्ये भिक्षार्थं निष्काशिते प्रतिषेधनं "ममैतदकारकमन्यदेहि' इति वक्तुं लज्जातो भवति दुक्खं, यदि पुनः लज्जां मुक्त्वा भणति तदा अनन्तरवक्ष्यमाणगाथोद्वयोक्ता दोषाः। तथा भिक्षामटन्नाचार्यो राज्ञा मत्तवारणकस्थितेन दृष्टस्तत आकारयित्वा भणितो 'मम गृहे भिक्षां
गाथा २५६४-२५६९
आचार्यस्य भिक्षाटने
दोषाः
१०९० (A)
For Private And Personal Use Only