________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
षष्ठ
उद्देश :
१०८९ (A)
܀܀܀܀
www. kobatirth.org
,
यावद्भिक्षामटित्वा क्षणमात्रमाश्वस्य भुङ्क्ते । भुक्तोऽपि च खेदं भिक्षाटनपरिश्रमं यावत् प्रतिनयति स्फेटयति तावद्दिवसः सकलोऽपि गतस्ततो नास्ति सा वेला यत्र सूत्रस्यार्थस्य वा चिन्तां करोति । अचिन्तितं च विस्मृतिमुपयाति ततो नष्टस्मृतिः किं दास्यति ? न किमपीति भावः । वाशब्दो दूषणसमुच्चये ॥ २५६० ॥
एतदेव सुव्यक्तं भावयति
रेगो नत्थि दिवसतो, रत्तिं पि न जग्गते समुव्वातो ।
नय अग्गुणिउं दिज्जइ, जइ दिज्जइ संकितो दुहातो ॥ २५६१ ॥ दारं ५ । नास्ति को विविक्तोऽवसरो दिवसमध्ये यत्र सूत्रमर्थं वा चिन्तयति रात्रावपि समुद्वातः सम्यक् परिश्रान्तो न जागर्ति, न च सूत्रमर्थं वा अगुणयित्वा दीयते, यदि पुनर्दीयते तर्हि द्विधातः सूत्रतोऽर्थतश्च शङ्कितो भवति ॥ २५६१ ॥
गतमचिन्ताद्वारम् अधुना मेढिद्वारमाह
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
܀܀܀܀
गाथा
२५५८-२५६३ आचार्यस्य * भिक्षाहिण्डने
दोषाः
१०८९ (A)
܀܀܀