________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
भिक्षामटेयुः । यत एवं गणालोकेऽक्रियमाणेऽमी दोषाः, तस्मात् तिसृष्वपि सन्ध्यासु श्री * शिष्याणामालोकस्तिष्ठन् भिक्षामहिण्डमानः करोति ॥ २५५८ ॥
षष्ठ
उद्देशकः
*********
१०८८ (B)
www. kobatirth.org
गत गणालोकद्वारम् अधुना कायक्लेशद्वारमाह
हिंडतो उव्वातो, सुत्तत्थाणं च गच्छपरिहाणी ।
नासेहिति हिंडतो, सुत्तं अत्थं अरेगेणं ॥ २५५९ ॥ दारं ४ ।
Acharya Shri Kailassagarsuri Gyanmandir
हिण्डमानः पुनर्भिक्षां महान् कायक्लेश इति उव्वातोत्ति परिश्रान्तो भवति, परिश्रान्तत्वात् सूत्रमर्थं च दातुमसमर्थ इति शिष्येषु प्रातीच्छिकेषु च सूत्रार्थानां परिहानिः । ततो गच्छस्यापि परिहानिः । शिष्याणां प्रातीच्छिकाणां वाऽन्यत्रान्यत्र गणान्तरे सङ्क्रमात् । तथा हिण्डमानः सूत्रमर्थं चारेकेण अक्षेपेणाऽऽत्मनोऽपि नाशयिष्यति । २५५९ ॥ गतं कायक्लेशद्वारम् । इदानीमचिन्ताद्वारमाह
जा आससिउं भुंजइ, भुत्तो खेयं च जाव परिणेई । ताव गतो सो दिवसो, नट्ठसती दाहिती किं वा ? ॥ २५६० ॥
For Private And Personal Use Only
**
गाथा
| २५५८-२५६३ आचार्यस्य
* भिक्षाहिण्डने दोषाः
****
१०८८ (B)