SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०८८ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir T न करोति तदा मासलघु । भिक्षावेलायां द्वितीयं वारं गणालोकमकुर्वतो मासलघु । तृतीयं वारं विकालवेलायामप्यकुर्वतो मासलघु । तत्राचार्यो यदि भिक्षां नाऽटति तदा तिसृषु वेलासु गणालोकं कर्तुं शक्नोति । भिक्षामटन् कथं कुर्यात् ? । गणाऽऽलोके चाऽक्रियमाणे इमे दोषाः कोऽपि साधुर्नष्टो भवेत्, स च नष्ट इति ज्ञात्वा प्रत्यानीयते, गणालोके पुनरकृते नष्ट इत्येव न ज्ञायते ॥ तथा भिक्षाचर्यागमने कः सन्निवृत्तः को वा न ? इति न ज्ञायते, तथा गणाऽऽलोके अक्रियमाणे को दीर्घकालं भिक्षाचर्यां करोति ? को वा न ? इति, केन ज्ञायते तथा भिक्षामटत्याचार्ये भिक्षाचर्यात आगतानामालोचनायां कः शोधिं करोति ? तथा भिक्षां हिण्डमाने सूरौ कोऽपि गृहनिषद्यां वाहयति इत्येतन्न ज्ञायते ॥२५५७ ॥ मा आवस्सयहाणी, करेज्ज भिक्खालसा व अच्छेज्जा । तेण तिसंझाऽऽलोगं, सिस्साण करेति अच्छंते ॥ २५५८ ॥ दारं ३ ॥ भिक्षामटत्याचार्ये ये अवश्यं कर्त्तव्या योगास्तेषां यः प्रमादतो हानिं करोति स न ज्ञायते । तथा आचार्य एवास्माकं भिक्षामानेष्यतीति केचित् भिक्षालसा वसतावेव तिष्ठेयुर्न For Private And Personal Use Only गाथा | २५५८-२५६३ आचार्यस्य भिक्षाहिण्डने दोषाः * १०८८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy