________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् षष्ठ उद्देशकः १०८५ (B)
देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिंदे, ते गोयरियं न हिंडंति ॥ २५४९॥ जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः शक्रप्रभृतयश्चक्रवर्त्तिनः, उपलक्षणमेतत्, यथायोगं वासुदेवा बलदेवाश्च तथा माण्डलिकाः कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाभिगच्छन्ति ततस्ते गोचरचर्यां न हिण्डन्ते ॥ २५४९ ॥
संखादीया कोडी, सुराण निच्चं जिणे उवासंति । संसयवागरणाणि य, मणसा वयसा व पुच्छंते ॥ २५५०॥ सङ्ख्यातीताः सुराणां कोटयो नित्यं सर्वकालं जिनान् तीर्थकृत उपासते तथा सततं मनसा वचसा पृच्छति सुरादिके मनसा वचसा च संशयव्याकरणानि करोति (कुर्वन्ति) ततो न भिक्षां हिण्डन्ते ॥२५५० ॥
उप्पण्णणाणा जह नो अडंती, चोत्तीसबुद्धातिसया जिणिंदा । एवं गणी अट्ठगुणोववेतो, सत्था व नो हिंडइ इड्डिमं तु ॥ २५५१॥
गाथा २५४४-२५५१ आचार्यस्य अतिशायिप्रभुत्वम्
४१०८५ (B)
For Private And Personal Use Only